|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.3. अध्यायः 003
Mahabharata - Shanti Parva - Chapter Topics
कदाचन रामे कर्णोत्सङ्गे शिरो निधाय निद्राणे केनचित्क्रिमिणा कर्णस्योरुभेदनम्॥ 1॥ तदूरोः प्रस्रुतरुधिरक्लेदात्प्रबुद्धेन रामेण कर्णस्य शापदानम्॥ 2॥ रामाज्ञया कर्णस्य स्वदेशगमनम्॥ 3॥

Mahabharata - Shanti Parva - Chapter Text
नारद उवाच। 12-3-0x(6709)(80965)
कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च।
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा॥ 12-3-1(80966)
ततस्तस्मै महातेजा ब्रह्मास्त्रं सनिवर्तनम्।
प्रोवाच सुमहाप्रज्ञः स तपस्वी तपस्विने॥ 12-3-2(80967)
विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः।
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः॥ 12-3-3(80968)
ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात्।
कर्णेन सहितो धीमानुपवासेन कर्शितः॥ 12-3-4(80969)
सुष्वाप जामदग्न्यस्तु विस्रम्भोत्पन्नसौहृदः।
तस्योत्सङ्गे समाधाय शिरः क्लान्तमना गुरुः॥ 12-3-5(80970)
अथ क्रिमिः श्लेष्ममयो मांसशोणितभोजनः।
दारुणो दारुणाकारः कर्णस्याभ्याशमागतः॥ 12-3-6(80971)
स तस्योरुमथासाद्य बिभेद रुधिराशनः।
न चैनमशकत्क्षेप्तुं वक्तुं वाऽपि गुरोर्भयात्॥ 12-3-7(80972)
स दश्यमानोऽपि तथा कृमिणा तेन भारत।
गुरोः प्रबोधनाकाङ्क्षी तमुपैक्षत सूर्यजः॥ 12-3-8(80973)
कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम्।
अकम्पयन्नव्यथयन्धारयामास भार्गवम्॥ 12-3-9(80974)
यदा स रुधिरेणाङ्गे परिस्पृष्टोऽभवद्गुरुः।
तदाऽबुध्यत तेजस्वी संरब्धश्चैनमब्रवीत्॥ 12-3-10(80975)
अहोऽस्म्यशुचितां प्राप्तः किमिदं च कृतं त्वया।
कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम॥ 12-3-11(80976)
तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम्।
ददर्श रामस्तं चापि कृमिं सूकरसंस्थितम्॥ 12-3-12(80977)
अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिः परिसंवृतम्।
रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः॥ 12-3-13(80978)
स दृष्टमात्रो रामेण किमिः प्राणानवासृजत्।
तस्मिन्नेवासृजि क्लिन्नस्तदद्भुतमिवाभवत्॥ 12-3-14(80979)
ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान्।
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः॥ 12-3-15(80980)
स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः।
स्वस्ति ते भृगुशार्दूल गमिष्येऽहं यथागतम्॥ 12-3-16(80981)
मोक्षितो नरकादस्माद्भवता मुनिसत्तम।
भद्रं च तेऽस्तु सिद्धिश्च प्रियं मे भवता कृतम् 12-3-17(80982)
तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्।
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत्॥ 12-3-18(80983)
सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः।
पुरा देवयुगे तात भृगोस्तु सवया इव॥ 12-3-19(80984)
सोऽहं भृगोः सुदयितां भार्यामपहरं बलात्।
महर्षेरभिशापेन क्रिमिभूतोऽपतं भुवि॥ 12-3-20(80985)
अब्रवीद्धि स मां क्रुद्धस्तव पूर्वपितामहः।
मूत्र श्लेष्माशनः पाय निरयं प्रतिपत्स्यसे॥ 12-3-21(80986)
शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रवम्।
भविता भार्गवाद्रामादिंति मामब्रवीद्भृगुः॥ 12-3-22(80987)
सोऽहमेनां गतिं प्राप्तो यथा नकुशलस्तथा।
त्वया साधो समागम्य विमुक्तः पापयोनितः॥ 12-3-23(80988)
एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः।
रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत्॥ 12-3-24(80989)
अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत्।
क्षत्रियस्येव ते धैर्यं कामया सत्यमुच्यताम्॥ 12-3-25(80990)
तमुवाच ततः कर्णः शापाद्भीतः प्रसादयन्।
ब्रह्मक्षत्रान्तरे जातं सूतं मां विद्धि भार्गव॥ 12-3-26(80991)
राधेयः कर्ण इति मां प्रवदन्ति जना भुवि।
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव॥ 12-3-27(80992)
पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः।
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके॥ 12-3-28(80993)
तमुवाच भृगुश्रेष्ठः सरोपः प्रदहन्निव।
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम्॥ 12-3-29(80994)
यस्मान्मिथ्याविचीर्णोऽहमस्त्रलोभादिह त्वया।
तस्मादेतन्न ते मूढ ब्रह्मास्त्रं प्रतिभास्यति॥ 12-3-30(80995)
अन्यत्र वधकालात्ते सदृशे न समीयुपः।
अब्राह्मणे न हि ब्रह्म चिरं तिष्ठेत्कदाचन॥ 12-3-31(80996)
गच्छेदानीं न ते स्थानमनृतस्येह विद्यते।
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि॥ 12-3-32(80997)
एवमुक्तः स रामेण न्यायेनोपजगामह।
दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत्॥ ॥ 12-3-33(80998)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि तृतीयोऽध्यायः॥ 3॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-3-1 दभेनेन्द्रियजयेन॥ 12-3-5 विस्रम्भो विश्वासः॥ 12-3-6 श्लेष्ममेदोमांसेति झ. पाठः॥ 12-3-7 क्षेप्तुं दूरीकर्तुम्। भयान्निद्राभङ्गभयात्॥ 12-3-8 प्रबोधनाशङ्कीति झ. पाठः। 12-3-12 सूकरस्येव संस्थितं संस्थानं पस्य तम्। सूकरसन्निभमिति झ. पाठः॥ 12-3-13 सूचीभिरिव तीक्ष्णै रोमभिः संवृतम्। सन्निरुद्धाङ्गं त्रासेन संकुचिताङ्गं नाम प्रसिद्धम्। नामतो नाम्रा॥ 12-3-14 असृजि शोणिते॥ 12-3-19 यास्को नामेति ड. पाठः। प्रस्तो नामेति थ. पाठः। देवयुगे सत्ययुगे॥ 12-3-23 नकुशलः अभद्रः॥ 12-3-25 कामया स्वरसेन। कामये सत्यमुच्यतामिति ट.ड. पाठः॥ 12-3-26 ब्रह्मक्षत्रयोरन्तरे अन्यत्र जातम्॥ 12-3-29 प्रहसन्निवेति थ. पाठः॥ 12-3-30 तस्मादिति। हेमूढ ते तव वधकालादन्यत्र ब्रह्मास्त्रं न प्रतिभास्यतीति न किंतु वधकालएव न प्रतिभास्यति। कालान्तरे तु प्रतिभास्यत्येवेत्यर्थ इत्युत्तरेण संबन्धः॥ 12-3-31 सदृशेऽर्जुनादौ शूरे ते पुरतः स्थिते समीयुषः युध्यमानस्य। समित्याजिसमिद्युध इति संपूर्वस्य इणो युद्धार्थत्वदर्शनात्। चिरं मरणावधि न तिष्ठेद्ब्रह्म ब्रह्मास्त्रम्॥ 12-3-33 न्यायेनाभिवन्दनादिपूर्वकं उपजगाम। इष्टं देशमिति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|